|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.168. अध्यायः 168
Mahabharata - Udyoga Parva - Chapter Topics
भीष्मेण कर्णस्यार्धरथत्वे कथिते तेन भूष्मोपालम्भनपूर्वकं तज्जीवितावधि स्वेन युद्धाकरणप्रतिज्ञा ॥ 1 ॥ भीष्मेण कर्णगर्हणे दुर्योधनेन भीष्मंप्रति सान्त्वनपूर्वकं परसेनायां रथातिरथसंख्यानप्रार्थना ॥ 2 ॥

Mahabharata - Udyoga Parva - Chapter Text
भीष्म उवाच। 5-168-0x(3872)(37659)
अचलो वृषकश्चैव सहितौ भ्रातरावुभौ ।
रथौ तव दुराधर्षौ शत्रून्विध्वंसयिष्यतः ॥ 5-168-1(37660)
बलवन्तौ नरव्याघ्रौ दृढक्रोधौ प्रहारिणौ।
गान्धारमुख्यौ तरुणौ दर्शनीयौ महाबलौ ॥ 5-168-2(37661)
सखा ते दयितो नित्यं य एष रणकर्कशः ।
उत्साहयति राजंस्त्वां विग्रहे पाण्डवैः सह ॥ 5-168-3(37662)
परुषः कत्थनो नीचः कर्णो वैकर्तनस्त्रव ।
मन्त्री नेता च बन्धुश्च मानी चात्यन्तमुच्छ्रितः ॥ 5-168-4(37663)
एष नैव रथः पूर्णो न चाप्यतिरथो रणे ।
वियुक्तः कवचेनैष सहजेन विचेतनः ॥ 5-168-5(37664)
कुण्डलाभ्यां च दिव्याभ्यां वियुक्तः सततं घृणी ।
अभिशापाच्च रामस्य ब्राह्मणस्य च भाषणात् ॥ 5-168-6(37665)
करणानां वियोगाच्च तेन मेऽर्थरथो मतः।
नैष फाल्गुनमासाद्य पुनर्जीवन्विमोक्ष्यते॥ 5-168-7(37666)
ततोऽब्रवीत्पुनर्द्रोणः सर्वशस्त्रभृतां वरः।
एवमेतद्यथाऽऽत्थ त्वं न मिथ्यास्ति कदाचन ॥ 5-168-8(37667)
रणेरणेऽभिमानी च विमुखश्चापि दृश्यते।
घृणी कर्णः प्रमादी च तेन मेऽर्धरथो मतः ॥ 5-168-9(37668)
संजय उवाच। 5-168-10x(3873)
एतच्छ्रुत्वा तु राधेयः क्रोधादुल्फाल्य लोचने ।
उवाच भीष्मं राधेयस्तुदन्वाग्भिः प्रतोदवत् ॥ 5-168-10(37669)
पितामह यथेष्टं मां वाक्शरैरुपकृन्तसि ।
अनागसं सदा द्वेषादेवमेव पदेपदे ॥ 5-168-11(37670)
मर्षयामि च तत्सर्वं दुर्योधनकृतेन वै ।
त्वं तुं मां मान्यसे मन्दं यथा कापुरुषं तथा ॥ 5-168-12(37671)
भवानर्धरथो मह्यं मतो वै नात्र संशयः ।
सर्वस्य जगतश्चैव गाङ्गेयो न मृषा वदेत् ॥ 5-168-13(37672)
कुरूणामहितो नित्यं न च राजाऽवबुध्यते ।
को हि नाम समानेषु राजसूदारकर्मसु ॥ 5-168-14(37673)
तेजोवधमिमं कुर्याद्विभेदयिषुराहवे ।
यथा त्वं गुणविद्वेषादपरागं चिकीर्षसि ॥ 5-168-15(37674)
न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः ।
महारयत्वं संख्यातुं शक्यं क्षत्रस्य कौरव ॥ 5-168-16(37675)
बलज्येष्ठं स्मृतं क्षत्रं मन्त्रज्येष्ठा द्विजातयः ।
धनज्येष्ठाः स्मृता वैश्याः शूद्रास्तु वयसाऽधिकाः ॥ 5-168-17(37676)
यथेच्छकं स्वयं ब्रूया रथानतिरथांस्तथा।
कामद्वेषसमायुक्तो मोहात्प्रकुरुते भवान् ॥ 5-168-18(37677)
दुर्योधन महाबाहो साधु सम्यगवेक्ष्यताम्।
त्यज्यतां दुष्टभावोऽयं भीष्मः किल्बिषकृत्तव ॥ 5-168-19(37678)
भिन्ना हि सेना नृपते दुःसन्धेया भवत्युत।
मौला हि पुरुषव्याघ्र किमु नानासमुत्थिताः ॥ 5-168-20(37679)
एषां द्वैधं समुत्पन्नं योधानां युधि भारत।
तेजोवधो नः क्रियते प्रत्यक्षेण विशेषतः ॥ 5-168-21(37680)
रथानां क्वच विज्ञानं क्वच भीष्मोऽल्पचेतनः ।
अहमावारयिष्यामि पाण्डवानामनीकिनीम् ॥ 5-168-22(37681)
आसाद्य माममोघेषुं गमिष्यन्ति दिशो दश।
पाण्डवाः सहपञ्चालाः शार्दूलं वृषभा इव ॥ 5-168-23(37682)
क्वच युद्धं विमर्दो वा मन्त्रे सुव्याहृतानि च।
क्वचभीष्मो गतवयामन्दात्मा कालचोदितः ॥ 5-168-24(37683)
एकाकी स्पर्धति नित्यं सर्वेण रमता सह ।
न चान्यं पुरुषं कंचिन्मन्यते मोघदर्शनः ॥ 5-168-25(37684)
श्रोतव्यं खलु वृद्धानमिति शास्त्रनिदर्शनम् ।
न त्वेव ह्यतिवृद्धानां पुनर्बालाहि ते मताः ॥ 5-168-26(37685)
अहमेको हनिष्यामि पाण्डवानानीकिनीम् ।
सुयुद्धे राज्यशार्दूल यशो भीष्मं गमिष्यति ॥ 5-168-27(37686)
कृतः सेनापतिस्त्वेष त्वया भीष्मो नराधिप।
सेनापतौ यशो गन्ता न तु योधान्कथञ्चन ॥ 5-168-28(37687)
नाहं जीवति गाङ्गेये योत्स्ये राजन्कथञ्चन।
हते भीष्मे तु योद्धाऽस्मि सर्वैरेव महारथैः ॥ 5-168-29(37688)
भीष्म उवाच। 5-168-30x(3874)
समुद्यतोयं भारो मे सुमहान्सागरोपमः।
धार्तराष्ट्रस्य संग्रामे वर्षपूगाभिचिन्तितः ॥ 5-168-30(37689)
तस्मिन्नभ्यागते काले प्रतप्ते रोमहर्षणे ।
मिथो भेदो न मे कार्यस्तेन जीवसि सूतज ॥ 5-168-31(37690)
न ह्यहं त्वद्य विक्रम्य स्थविरोऽपि शिशोस्तव।
युद्धश्रद्धामहं छिन्द्यां जीवितस्य च सूतज ॥ 5-168-32(37691)
जामदग्र्येन रामेण महास्त्राणि विमुञ्चता।
न मे व्यथा कृता काचित्त्वं तु मे कि करिष्यसि ॥ 5-168-33(37692)
कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम्।
वक्ष्यामि तु त्वां सन्तप्तो निहीन कुलपांसन ॥ 5-168-34(37693)
समेतं पार्थिवं क्षत्रं काशिराजस्वयंवरे ।
निर्जित्यैकरथेनैव याः कन्यास्तरसाहृताः ॥ 5-168-35(37694)
ईदृशानां सहस्राणि विशिष्टानामथो पुनः ।
मयैकेन निरस्तानि ससैन्यानि रणाजिरे ॥ 5-168-36(37695)
त्वां प्राप्य वैरपुरुषं कुरूणामनयो महान्।
उपस्थितो विनाशाय यतस्व पुरुषो भव ॥ 5-168-37(37696)
युध्यस्व समरे पार्थं येन विस्पर्धसे सह ।
द्रक्ष्यामि त्वां विनिर्मुक्तमस्माद्युद्धात्सुदुर्मते ॥ 5-168-38(37697)
तमुवाच ततो राजा धार्तराष्ट्रः प्रतापवान् ।
मां समीक्षस्व गाङ्गेय कार्यं हि महदुद्यतम् ॥ 5-168-39(37698)
चिन्त्यतामिदमेकाग्रं मम निःश्रेयसं परम्।
उभावपि भवन्तौ मे महत्कर्म करिष्यतः ॥ 5-168-40(37699)
भूयश्च श्रोतुमिच्छामि परेषां रथसत्तमान् ।
ये चैवातिथास्तत्र ये चैव रथयूथपाः ॥ 5-168-41(37700)
बलाबलममित्राणां श्रोतुमिच्छामि कौरव ।
प्रभातायां रजन्यां वै इदं युद्धं भविष्यति ॥ ॥ 5-168-42(37701)
इति श्रीमन्महाभारते उद्योगपर्वणि रथातिरथसंख्यानपर्वणि अष्टषष्ट्यधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-168-5 विचेतनः मूर्खः ॥ 5-168-6 घृणी निन्दकः ॥ 5-168-7 करणाना सहजकवचादीनाम् ॥ 5-168-13 भवान् कर्णोऽधरथो मह्यं मम मत इति गाङ्गेयो वदेत्तन्न मृषेति सर्वस्य जगतो मत इति संबन्धः । त्वद्वाक्यात्सर्वेपि मामवमंस्यन्त इति भावः । गाङ्गेय न मृषावदे इति खo घo पाठः ॥ 5-168-15 अपरायां द्वेषम् ॥ 5-168-18 प्रकुरुते प्रकारं भेदं कुरुते। प्रकारस्तुल्यभेदयोरिति विश्वः ॥ 5-168- पारंपर्यागताः तेपि भिन्नाः सन्तो दुःसधेया भवन्ति नाना पृथक्भूताः एकककार्यार्थं ...........


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|